क्रीडेति । काव्यसमस्या क्रीडा, उक्तपूर्वा गोष्ठी, तत्र विनोदो मनोनुकूलेन समयातिवाहनम् । आदिपदं पूर्ववत् । ननु मा भूत्प्रकृतिभावेन भाषान्तरसंभेदः संस्कारसंपाते तु भविष्यति, तथा च कथं साधारणीतो भिद्यत इत्यत आह—असाधारणी चेति । गोसे प्रभाते, तविञ्छिरिञ्छोली कमलरजःपङ्क्तिः । तल्लमल्पसरः । तूहं तीर्थम् । विवल्लिदा प्रसारिता । नात्र पूर्वोत्तरार्धयोरैकमत्यमुदाहरणत्वात् । आराध्यास्तु यथा सरस्तीरे कमलरजःपङ्क्तिः प्रसृता शोभते तथा विद्वद्वक्त्रेषु भीष्मवाक्यानीत्युपमाकल्पनया कथंचिदेकवाक्यतामाहुः । अत्र पूर्वार्धपदानीति । न भीष्मादयोऽनभिधानादिति भाषान्तरस्थानिभावस्य प्रतिषेधात् । एवं वाचस्पतिविशिष्टरसवशप्रचेतसपोतादयो द्रष्टव्याः । प्राकृत एवेति । महाराष्ट्रदेशीयत्वाद्देशीपदानां च स्थानिभावासंभवात् । भाषान्तराणां पुनरिति । सिद्धिर्महाराष्ट्रीतः, सिद्धिः शौरसेनीतः, इत्युपक्रम्यानुशासनात्तद्भवरूपतैव स्फुटा । तत्समानां तु साधारण्यमेवेति ॥