अन्ये पुनरिति । वर्णानां वर्तनं वर्तनाधिष्ठानं च वर्तिपदेनाभिमतम् । आद्ये संघटनविघटनाभ्यां द्विधा । समस्तव्यस्तभेदेन संघटनविघटने द्विधा । कादयो मावसानाः स्पर्शाः । आदिग्रहणादन्तःस्थोष्मणोः संघटनबहुलः संदर्भः प्रस्फुटः । विघटनबहुलः कोमलः । उभयबहुल उन्मिश्रः ॥