पद्यमिति । पठितेः पदात्पदान्तरसंचारो गतिः । सा केनचिदौचित्योपनिपातिना संदर्भपरिमाणेन नियम्यते । ततस्तदप्युपचारेण गतिः । पठितिपरिमाणं च काव्यं समाश्रयत इति तदपि गतिस्तच्च पद्यादिभेदेन त्रिविधमिति संक्षेपः । अत एव गद्यबन्धे तु कैश्चिद्वृत्तमाश्रितं वृत्तं वर्तनमियत्तेति यावदिति । सर्वनामशब्दा हि कदाचिदुद्देश्यस्य लिङ्गमाश्रयन्ते कदाचित्प्रतिनिर्देश्यस्येति काव्ये यत्सा गतिरित्युक्तम् । तत्र पद्यं चतुष्पदीति न लक्षणमुल्लालमात्रादौ द्विपदपञ्चपदादिशरीरे तदभावात् । अपादः पदसंतानो गद्यमित्यपि न । अपादत्वं ह्यप्रत्यभिज्ञायमानवृत्तभागत्वं, विवक्षातश्चतुष्पदीव्यतिरिक्तत्वं वा । आद्ये वृत्तिगन्धिपद्यं न स्यात् । द्वितीये त्वतिप्रसङ्गः । तस्माच्छन्दोनियमवती काव्यम्, अतथाभूता तु गद्यमिति विभागः । गद्यपद्यात्मकं काव्यं मिश्रम् । तदस्या गतेरलंकारत्वमुपपादयति—अर्थौचित्यादिभिरिति ॥

तत्रार्थौचितीमाह—