ततो वर्णानुप्रासं विशेषयन्नाह—यथाम्रातकेति । स्रगादेर्वर्णस्थानीया वर्णावृत्तिर्वर्णानुप्रासः । तत्रोपमानभूतवर्णविवरणं समानजातीयकुसुमादिविरचितमालापटप्रभृतिषु यदन्तरान्तरा विजातीयाम्रातककुसुमादिसंनिवेशनं तद्वर्ण इत्युच्यते । तद्वत्या वाचा वर्णावृत्तिः । सैव वर्णानुप्रास इति सूत्रार्थः । स द्विधा—संयुक्तासंयुक्तवर्णनिरूप्यत्वात् । यथायथमेतदुभयप्रपञ्चनम् ॥