कश्चिद्गद्येनेति । यथा ह्यटवीवर्णनादौ गद्यं प्रगल्भते तथा न पद्यम्, यथा च काव्यशास्त्रतानिर्वहणोचितेऽर्थे पद्यमुत्सहते न तथा गद्यमित्यादि । एवं कथाख्यायिकादौ गद्यमेव, चम्पूप्रभृतौ मिश्रमेवेत्यादिपदोपात्तबन्धौचिती द्रष्टव्या ॥

आस्तां तावदर्थाद्यौचित्यगवेषणं स्वरूपेणैव पद्यादिकं परिस्फुरत्कविप्रतिभाविशेषावेदनेन सहृदयावर्जकमवसीयते । कथमन्यथा क्वचिदेव कस्यचित्सौष्ठवमित्याह—