प्रकारे गुणवचनस्येति । प्रकारः सादृश्यं तत्पूर्णगुणेन न्यूनगुणस्य साधारणगुणान्वये भवति । एवं चास्ति समानशब्दाभिधेयत्वं च व्याप्तिः । इयांस्तु विशेषो यदेकत्र सिद्धस्यान्यत्र प्रतिबिम्बनं सादृश्यं, शुद्धवीप्सायां तु युगपदेकस्य नानापदार्थसंबन्ध इति । सोऽयं वीप्साप्रकारशब्दार्थः । अत एव ‘प्रकारे गुणवचनस्य ८।१।१२’ इति पृथक्सूत्रितम् । इह तु वीप्सापदेनैवायमर्थ उपग्राह्य इत्याभिप्रायः । मन्दं मन्दमिवोदित इति क्रियाविशेषणमुपमितम् । एवं भीत भीत इति कर्तृविशेषणमपि । सादृश्यलक्षणगुणोत्प्रेक्षायामिवशब्दः ॥