अत्र मुञ्च परित्यज दहति अपाकुरु इति क्रियापदेष्वावेगसंभ्रमान्नद्विरुक्तेः । तथाहि—अरण्यानीप्रवेशे विजिगीषुद्विषां योषिद्दावाग्निसंभ्रमावेगात्कयाप्येवमुच्यते, तत्र प्रथमं कञ्चुक एवावेगसंभ्रमः । स ह्यागते दावाग्नावुत्तारयितुमशक्यः । ततस्तव्द्यासङ्गहेतौ हारे, अनन्तरं परापतितदावाग्निदीप्ते वाससीति ॥