गद्यमिति । उत्कलिका कल्लोलस्तत्प्रायम् । उच्चावचमिव प्रतिभासमानमित्यर्थः । यथा—‘सलीलकरकमलतालिकातरलवलयावलीकम्’ इति । वृत्तगन्धि प्रतिभातवृत्तैकदेशम् । तदेतदल्पाख्यायामुत्पन्नेन समासान्तेन व्यञ्जितम् । तदयमर्थः— सामान्यतः पद्यादिभेदेन गतिस्त्रिधा । तत्रापि जात्यादिभेदेन षट्प्रकाराः । तेऽपि द्रुतादिभेदेन षट्त्रिंशदिति ॥

ननु ललितादयो गद्यभेदाः कैश्चिदलंकारकारैः परिसंख्यातास्ते कस्मान्नोच्यन्त इत्यत आह—