ललितमिति । सुकुमारसंदर्भं ललितम् । यथा—‘कमलिनीवनसंचरणव्यतिकरलग्ननलिननालकण्टके वने क्वचिन्निर्भरं पदमादधाति’ इति । प्रस्फुटसंदर्भं निष्ठुरम् । यथा—‘उत्तम्भितकुटिलकुन्तलकलापः श्मशानवाटमवतरति’ इति । अनुल्लिखितसमासं चूर्णम् । यथा—‘अभ्यासो हि कर्मणः कौशलमादधाति । न खलु संनिपातमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामादधाति’ इति । उद्भटसभासमाविद्धम् । यथा—‘कुलिशशिखरखरतरस्वरप्रचयप्रचण्डचपेटपाटितमत्तमातङ्गमदच्छटाच्छुरितचारुकेसरभारभासुरमुखे केसरिणि’ इति । रीतिवृत्त्योरिति विषयसप्तमी । तथा ललितं कैशिक्यादौ, निष्ठुरभारभट्यादौ, चूर्णं वैदर्भ्यादौ, आविद्धं गौडीयाप्रभृतौ, यथायथमन्तर्भवतीति नोक्तभेदाः परिसंख्याता इत्यर्थः ॥

उक्तप्रकारेषु किंचिदुदाहरति—