क्रमस्थेति । वर्णसमाम्राये येन क्रमेण कादयो मावसानाः पठितास्तेन क्रमेण व्यञ्जननिवेशः । कः खगौघस्तत्तत्प्रसिद्धावदानपक्षिसमूहस्तमञ्चतीति क्विनि संयोगान्तलोपे कृते च खगौघाङिति रूपम् । चितं संविदं छ्यति छिनत्तीति चिच्छं यदोजस्तन्नास्ति यस्यासावचिच्छौजाः । ‘झमु अदने’ अस्मात् क्विप् । ‘अनुनासिकस्य क्विझलोः ६।४।१६’ इत्युपधादीर्घः । ‘मो नो धातोः ८।२।६४’ इति नकार इति झान् परबलभक्षको ज्ञः पण्डितः । ‘स्तो श्चुना श्रुः ८।४।४०’ इति नकारस्य ञकाराः । अटाः सङ्ग्रामाङ्गणपर्यटनशीलाः सुभटास्तानोठते बाधत इति क्विप् । ‘उठ गतौ’ इति धातो रूपम् । तेषामीडीश्वरः । अडण्ढणोऽचपलः । डण्ढण इत्यव्युत्पन्नं चपलवाचि प्रातिपदिकम् । तथा अभीर्भयरहितः एवंविधः को नामायमुदधीन् पफर्ब पूरयामासेति प्रश्नः । उत्तरम्—अरीन् लुनन्ति या आशिषस्तासां सहः क्षमो मयो दैत्यराज इति ॥