वर्णवत्स्थानेष्वपि चतुरादिनियमेन चित्रम् । यद्यपि च ‘अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्टौ च तालु च’ इति, तथापि जिह्वामूलीयस्य स्वरत्वादुरस्यनासिक्ययोः काव्यप्रवेशाभावादुरोनासिकाजिह्वामूलपर्युदासेन स्थानपञ्चके चतुरादिनिरूपणम् । हे सूचिरुचिधीः शुचिभिः शुद्धाभिर्नुतिभिः स्तुतिभिर्यथोक्तविशेषण विरिञ्चिं ब्रह्माणं धिनु प्रीणयेति । अकुहविसर्जनीयाः कण्ठ्याः ॥