गाङ्गकं गङ्गासंबन्धि जलं तस्याकः कुटिला गतिः । ‘अक अग कुटिलायां गतौ’ इति । तस्याङ्कस्य तन्मध्यस्य गाहको विलोलकः । कुत्सितमघं पापमघकं स एव काकस्तं हतवानघकक्राक्रहा । अन्ये तु विसर्गान्तं पठन्ति । तदा जहातेर्विधिरूपम् । एवंविधस्त्वं गां स्वर्गं अगाः याया इति आशंसायां भूतप्रत्ययः । कीदृशः सन् । हानं हाः न हा अहास्ताञ्जिहीते प्राप्नोतीति अहाहं तादृशमङ्गं यस्य स खगो गरुडः सूर्यो वा सोऽङ्कश्चिह्नभूतो यस्य तादृशोऽगोऽर्थान्मेरुस्तद्वर्तिनः कङ्काख्या अगखगा वृक्षनिवासिनः पक्षिणस्तेऽपि आकाकका गमनस्पृहयालवो यस्य स तथा । आस्तां तावदन्ये, पतत्त्रिभिरप्यभिनन्दितगमन इत्यर्थः ॥