स्वरचित्रेष्वेकादिक्रमेणोपन्यासो ग्रन्थवैचित्र्यार्थः । उरुगुं विस्तीर्णवाचम् । द्युगुरुं स्वर्वासिनामाचार्यम् । युत्सु युद्धार्थम् । ‘निमित्तात्कर्मयोगे’ इति सप्तमी । गीर्वाणभटाश्रुक्रुशुरार्ताः शरणं ययाचिरे । अत एव पुरु बहुधा तुष्टुवुः । युद्धप्रयोजन-271 माह—मुत्सु हर्षेषु लुलुभुः । पुपुषुः पुष्टा बभूवुः । नु वितर्के । मुहुर्मुहुर्वारंर्वारं किं मुमुहुर्मोहमासादितवन्तः । यतः क्रोशनादीनामव्यवस्थेति भावः ॥