क्षितेर्विजितिः विजयः, स्थितेर्वर्णाश्रममर्यादालक्षणाया विहितिर्विधानं तदेव व्रतं 272 तत्र रतिर्येषाम् । परा श्रेष्ठा गतिर्ज्ञानं येषां ते तथा । एवंविधाः कुरवः स्वद्विषां कुलमुरु विस्तीर्ण रुरुधुः । तदेव गुरु महत् दुधुवुः कम्पयामासुः ॥