अष्टपत्त्रमेव कविनामाङ्कमाह—रातावद्येति । ‘गीर्वाणसुभटः कश्चिद्युयुत्सुर्दैत्यसेनया । तत्कालकृतसांनिध्यां मायादेवीमपूजयत् ॥’ तथाहि—व्याजो माया सैव वाग्रूपा व्याजशब्दोपपदं वागभिधानं यस्याः सा मह्यं रक्षास्त्विति संबन्धः । रातं दत्तमवद्यं दोषबहुलमाधिराज्यम्, अवद्या आधयो यत्र तादृशं वा राज्यं यया । विशिष्टं सरणं विसरस्तं राति प्रयच्छति यो रसोऽर्थाद्वीरस्तं वेत्ति विन्दति वा । या क्ष्मायां पृथिव्यामपकारः पुत्रकलत्रादिरूपो यस्याः सकाशादिति गमकत्वाद्वहुव्रीहिः । राका पूर्णिमा, द्वादशवर्षदेशीयकन्यारूपा वा । पक्ष्माभः शरीरसंलग्नः शेषः सर्पः । यस्या नयनं नीतिस्तान्नयतीति यन्नयनं दृष्टिः । ज्ञानमिति यावत् । तदेव स्वमात्मा यस्याः । खे व्योम्नि यातीति खया । स्तव्यो मारो मारणं कामो वा यस्याः । सा रामा रमणीया स्त्रीरूपा वा । व्यस्तं विनाशितं स्थिरत्वं यया । तुहिनं नयति प्रापयतीति नयतेर्डप्रत्यये तुहिननश्चन्द्रस्तस्य नहितुर्जटाजूटे बन्धयितुः परमेश्वरस्य श्रीः शक्तिरूपा । नह्यति बध्नातीति नहेर्विचि नहं स्तुतिमासादयतीति । ‘सर्वप्रातिपदिकेभ्यः क्विब्वक्तव्यः’ इति क्विपि तृजन्तस्य रूपम् । कं सुखं राति ददातीति करस्तस्य क्षारभूता दस्यवस्तेषां खङ्गादिधारेव धारा छेत्त्री । राधेति देव्याः पौराणिकं नाम । ममेत्यव्ययं भावप्रधानम् । शिवे मनत्वं मान्ति परिच्छिन्दन्ति ये वशिनो योगिनस्तेषामपि व्यालविद्यां क्षुद्रविद्यामवतारयति या सा तथा ॥ न्यासमाह—निविष्टेति । अष्टभिः पादार्धैरष्टदलविरचना । यद्वर्णाष्टकं नाम्नो-276 त्तिष्ठति तदाह—‘राजशेखरकमल’ । कविकाव्यनामलाभादंविभक्तिकत्वमप्यदोषः । एतेनेति । नामाङ्कपद्मकथनेन चक्रमपि नामाङ्कमवसेयम् ॥