स त्वमित्यादि । हरेर्नादं सिंहनादं रोपैर्बाणैराजिरभसात्सङ्ग्रामहर्षादुद्धरतरश्रीवत्सभूमिरुन्नतहृदयः स त्वमालम्ब्य मानेन तद्विशिष्टमिति विशेषणम् । प्राप्तपापविनाशो मुदा हर्षेण अपगतभीः शत्रुर्हरिणव्याधोऽभ्रमाकाशं पिदधे तदा तस्मिन्काले सिंहनादमुक्त्वेति संबन्धः ॥ न्यासमाह—पुर इति । पुरः पुरो लिखित्वान्यानग्रे लिखेद्यथा षडराः संपद्यन्ते ॥