इह रे इत्यादि । लासे नृत्ये बहला असंकुचिता राहुमलीमसा श्यामा सालका भ्रूकर्णादिपरभागार्पकचूर्णकुन्तलवती रसाच्छृङ्गाराल्लीला यस्याः सा, तथा तुङ्गा उच्चव्यवहारा एवंविधा सा बाला हे चतुःषष्टिकलारत, अलालि लालिता त्वयेति संस्कृतश्लोकार्थः । कला गीतवाद्यनृत्यानां संकरीकरणसहिता पटीयसी गातुं तरला त्वरिता सालाली नानावृक्षपङ्क्तिस्तदीयेन सरकेण मधुना अलसा । श्यामा मधुरालापा सेला उत्तमा नारी । ‘सेला स्यादुत्तमा नारी’ इति देशीकोशे । सह इरया मदिरया वर्तन्ते सेला वा । रलयोरेकत्वस्मरणादिति केचित्, तच्चिन्त्यम् । अला भूषयित्री । हव धवेति संबोधनम् । रेहइ राजते । प्राकृतश्लोकार्थः । एवं भाषान्तराणामपि गतप्रत्यागती बोद्धव्ये ॥