‘कनी दीप्तौ’ । देवानाकनितुं शीलं यस्य । कावाद ईषद्वादो यत्र । कस्य मस्तकस्य सन्ना संगता आदा ग्रहणं यत्रेति वा । वाहिका पर्यायवहनम् । ‘पर्यायार्हणोत्पत्तिषु’ इति ण्वुच् । सैव स्वं वित्तभूता येषामेवंविधा ये स्वका आत्मपक्षीयास्तानाजिहीते इति विच् । कं मदजलमाकिरति इति काकारस्तादृश इभभरो हास्तिकं यत्र । हेऽकाकाः सात्त्विका इति संबोधनम् । काकाः सङ्ग्रामलोलुभा वा । क्वचित्कर्तर्यपि घञू । निःस्वा निरात्मानो भव्या आधेयगुणास्तानपि व्ययन्ति स्वबलेनोपबृंहयन्ति ये ते निस्वभव्यव्यास्तेषां भस्वनि भर्त्सनशीले । ‘भस भर्त्सने’ इत्यतः क्वनिप् ॥