द्वे शृङ्गाटके मिथो वैपरीत्येन यत्र शिखरं द्विशृङ्गाटकम् । करैः किरणैरासञ्जयतीति करासञ्जः । खे व्योम्नि गौरवं यस्य स तथा । वनात्मक जलस्वरूप । चन्द्रकलासु रसमनुरागं संधाय कृत्वा अन्तःस्वच्छतया दृश्यनभोभागनेमिमद्वलयाकारोल्लेखिनीं मे ममागौरीं श्यामां शङ्कामपनय । स्य इति क्रियापदम् । पूर्णो भवेति यावत् । वशेशमायत्तशंकरमिति क्रियाविशेषणम् ॥ न्यासमाह—श्रृङ्गादिति । शेषाक्षरैरिति । आद्यात्ककारादारभ्य यावत्समाप्ति शेषाण्यक्षराणि तैर्नेमिरिति न्यासः । अत्र ग्रन्थिवर्णैरेव ‘राजशेखरस्य’ इति नामाङ्कवर्णावली लभ्यते ॥