विविडितबन्धस्तु पञ्चशृङ्गचक्रम् । तद्देवताम्नाये दर्शितम् । ‘कर्पूरकुन्दगौरीं तनुमतनुं कार्मुकभ्रूकाम् । वरदानसुन्दरकरां विविडितचक्रस्थितां वन्दे ॥’ सेति । प्रसिद्धानुभावा सती गौरी सरन्ती निरर्गलप्रसरा न त्रस्यतीत्यत्रसा । अस्यन्दनेन स्थिरेण एनसा कल्मषेण शमिता विक्लवीभूता । रहितेति यावत् । ‘शम वैक्लव्ये' । अत्र जगति परं सारं यं भगवन्तमिता संगता । स च जयी महेश्वरो जयतादिति ॥ न्यासमाह—शिखरादिति । ‘अन्यतमाद्वा’ इति पाठः । ‘अन्यतमस्मात्’ इति पाठे तु सर्वनामत्वं चिन्त्यम् । केचित्तु ‘किंयत्तदेकान्येभ्यः’ इति पठित्वा डतम-282 द्वारिकां सर्वनामतामाहुः । गणे चान्यतरशब्दं न पठन्ति । अव्युत्पत्तिमात्रं चेदम् । अनिर्धारितैकाभिधायकस्त्वन्यतमशब्दः ॥