इन्दोर्भागः खण्डं । शं कल्याणं । अमरजनता देवसमूहः । नास्त्यन्यद्धाम स्थानं यस्य सोऽनन्यधामा । स्वात्माराम इत्यर्थः । न परं देवो देवी च । भ्रुवा भ्रूक्षेपेण दुरीरन्दूरमपनयन् नोऽस्माकं देहे दमं देयादिति संबन्धः । धूतेशभामा प्रणयेनापहृतपरमेश्वरप्रणयरोषा । ‘भाम क्रोधे’ इति धात्वनुसारात् । द्युसदना देवाः । अरतमविश्रान्तं नन्दिना नता उमा गौरी । अपूर्वं धाम तेजो यस्याः ॥