अभाग्यस्य रदं विलेखकम् । नाशकमिति यावत् । समितौ संग्रामे रावणस्य कैलासोद्धरणभग्नशक्तिकताशासनविक्रमावाज्ञापौरुषे येन तम् । वाञ्छितप्रदम् । चण्डमुग्रं कम्रं कमनीयं च । परेषां दर्पमर्दनशीलस्य नागस्य कालियाख्यस्य दंष्ट्राभिः, कुवलयापीडाख्यस्य हस्तिनो वा विषाणाभ्यां या आजिः सङ्ग्रामः तत्राजय्यं जेतुमशक्यम् । गदया नानारत्नखचितया कर्बुरम् । चित्रमिति यावत् ॥