‘वन्द्या देवी पर्वतपुत्री नित्यं मधुमधुरकमलवदना पुरन्ध्र्यधिदेवता देवैः स्तुत्या किन्नरगेया भक्त्या वरचरितमहिषमथनी जगत्त्रयनायिका ।
सिद्धैर्ध्येया केसरियाना काम्या रणचतुररसिकहृदया त्रिलोचनवल्लभा धीरैः पूज्या दर्पणपाणिर्नूनं गुणनिलयलटभललिता सतीषु धुरंधरा ॥’