वन्द्येति । वरेण देवताप्रसादेन चरितो निरर्गलप्रसरो गुणानामाश्रयो लटभं मनोज्ञं च ललितं विलासो यस्याः सा तथा । यतिविच्छेदिनीति । अत्र करणम्—‘प्रतिलोमं विनिक्षेप्यमनुलोममधः क्षिपेत् । स्थितेनागन्तुकं हन्यादीप्सितेन विभाजयेत् ॥’ स्थितं प्रतिलोममागन्तुकं क्रमविन्यस्तमीप्सितं हि प्रतिलोमस्य क्रमेण फलं गुणकारस्तथैवानुलोमं भागहारः । अनेन क्रमेणैकैकयतियोजने सप्त श्लोकाः । यतिद्विकयोजने चैकविंशतिः । यतित्रिकयोजने च पञ्चत्रिंशत् । यतिचतुष्कयोजनेऽपि तावन्त एव । यतिपञ्चकयोजने पुनरेकविंशतिः । षड्यतियोजने सप्त । सप्तयतियोजने त्वेकः । सर्वमेलनेन च सप्तविंशत्यधिकं शतम् । अत्र च क्रियाहीनत्वेन कारकविहीनत्वेन च पदावयववत्तया पदावयवमात्रत्वेन च निरर्थकान् षड्विंशतिमपास्य श्लोकधेनुरेकैव वृत्तभेदेन शतं श्लोकतर्णकान्प्रसूते । तथाहि । प्रथमद्वितीयचतुर्थीभिर्यतिभिरत्युक्ता जातिः । तृतीयपञ्चमीभ्यां सुप्रतिष्ठा । षष्ठ्या गायत्री । सप्तम्या चोष्णिगिति । एकगणनायां वृत्तभेदः । एवं द्विकादिगणनेऽपि गवेषणीयम् ॥