या गीरिति । पदग्रहादिति । तथाहि पञ्चदशभ्यः पदेभ्यः क्रमव्युत्क्रमाभ्यां नवादिपदयोगेऽङ्गीक्रियमाणे बृहतीजातेरारभ्य प्रतिजातिपादे ये विकल्पास्तैरुत्तरोत्तरमाहन्यमानैः, यदि वा समस्तेऽपि श्लोके षष्टिपदेभ्यश्चतुर्विंशत्यष्टाविंशत्यादिपदयोजनायां गायत्रीजातेरारभ्य प्रंतिजातिपादे ये विकल्पास्तैः परार्धेभ्यः परार्धानि तर्णकाः श्लोकाः समुत्पद्यन्ते इतीयं परार्धपरार्धधेनुः । एकाक्षरेति । अर्थत्रयप्रतिपादकत्वेन प्रतिपादं पदत्रये परिकल्प्यमानेऽनेकविधच्छन्दोभिरुक्तानि चतुर्व्यञ्जनादीन्यनुक्तानि खङ्गप्रभृतीनि सर्वचित्राण्येषैव यथाकामं प्रसूयत इत्यर्थः ॥