‘नान्दीपदानि रतनाटकविघ्नशान्ता- वाज्ञाक्षराणि परमाण्यथवा स्मरस्य ।
दष्टेऽधरे प्रणयिना विधुताग्रपाणि सीत्कारशुष्करुदितानि जयन्ति नार्याः ॥ ३८१ ॥’