तत्रेति । असमासा अनुल्लिखितसमासा । निःशेषश्लेषादीति । श्लेषादयो नव गुणास्तैर्गुम्फिता । मिथोमिलनेन संमूर्च्छितैरनुपलभ्यमानान्यतभमात्रकैरपि परस्परविभक्तस्वरूपभावेन सहृदयहृदयसंवादगोचरैरारब्धा । एवं विपञ्चीस्वरसौभाग्या । विपञ्ची वाग्रूपा सरस्वती बिम्बप्रतिबिम्बभावेन द्विविधा । प्रतिबिम्बाधिष्ठानतया दार्वादियन्त्रमपि विपञ्चीत्युच्यते । तदीयाः स्वरास्तन्त्रीकण्ठोत्थिताः स्थानक्रमवैपरीत्यानुमेयशारीराः प्रतिबिम्बभावाः षड्जादयस्तेषु श्रुतसंमूर्च्छनरूपेष्वपि मिथोविभक्ताः श्रुतयः श्रोत्ररञ्जकस्वरावस्थामापन्नाः समस्तगान्धर्ववित्साक्षिकाः प्रकाशन्ते । अत एव वीणैव प्रधानं समस्तस्य स्वरजातस्य तत्रैव श्रुतिमण्डलोन्मेषादिति ॥

यदा तु पानकादिन्यायेन कश्चिदंश उदितो भवति तदा रीत्यन्तरमुत्तिष्ठतीत्याह—