समस्तेति । यद्यप्युपक्रान्तरीत्यनिर्वाहोऽत्राप्यस्ति तथापि तिलतण्डुलवद्यावद्विभक्तरीतिसंवलनस्य कविसंरम्भगोचरस्योत्तररीतेः पृथग्भावः । पूर्वरीतेरिति । एकां रीतिमुपक्रम्य यदन्यया संदर्भनिर्वहणमसावन्य एव प्रकारः । न चानिर्वाहो दोषश्छायावैरूप्याभावात् । रीतिखण्डनेऽपि हि संदर्भसौभाग्यसंपत्तिः शक्तिमेवाविष्करोति ॥