या विकास इति । वृत्तिर्वर्तनं रसविषयो व्यापारः काव्यस्य रसप्रवणत्वात् । स च व्यापारः सत्त्वाद्युद्रेकलक्षणो जन्मान्तरानुभवभावितवासनासमुत्थः परिपूर्णीभविष्यद्रसास्वादसर्वस्वायमानचित्तावस्थनिदानभूतोऽर्थगतः पञ्चमेऽभिधास्यते । शब्दगतः पुनरत्र संगतः संदर्भस्य रसप्रकाशकारणेषु प्रधानत्वात् । यदाह—

‘कविवागभिनेयश्च तदुपायो द्विधेष्यते ।
वस्तुशक्तिमहिम्ना तु प्रथमोऽत्र विशिष्यते ॥’

वर्ततेऽनया चित्तमिति करणसाधनोऽयं वृत्तिशब्द इति वर्तयित्रीत्यनेन प्रयोजकव्यापारप्रधानेन दर्शितम् । तत्र विषयवैचित्र्याद्विकासाद्याश्चतस्रश्चित्तावस्थाः । विषयो हि दीप्तमसृणमध्यमभेदेन त्रिविधः । विभावाद्युपधानमहिम्ना तन्मयीभवनयोग्यं हि चेतः कदाचिद्विकसति । सत्त्वाविर्भावो विकासः । न्यग्भूतरजस्तमोगुणं हि चेतः सत्त्वोद्रेकप्रकाशानन्दमयसंविद्विश्रान्तिमासादयति । ततः सत्त्वभागप्रतिष्ठितः 160 शृङ्गारस्तदाभासोऽपि तामेव भूमिकामालम्बते । अत एव शुक्तिरजतवद्भावोदयेऽपि दोषमहिम्नैव काव्यमहिम्ना तव्द्यञ्जनात् । तत्समानभूमिकया हास्यो रसः प्रादुर्भवतीत्यभिसंधायाह—‘शृङ्गाराद्धि भवेद्धास्यम्’ इति भरतमुनिः । तेन विकासभूमिकौ शृङ्गारहास्यौ । विकासात्प्रच्युतमप्राप्तगुणान्तरप्रादुर्भावं विक्षिप्तं चित्तमुच्यते । तत्रोचितविभावादिवैचित्र्यादाविर्भवद्रजोगुणस्य चेतसो विक्षेपप्रच्युतिदशायां रौद्ररसोन्मेषः । अत एव समानभूमिकया ‘रौद्राच्च करुणो रसः’ इत्याह । यदा तु सत्त्वतमोनिमीलनेन केवलरजःप्रतिष्ठं चेतस्तदा बहुमुखव्यापारोन्मेषाद्विस्तराख्यामवस्थामासादयति । तद्भूमिको वीररसस्तदवस्थामेवास्थायाद्भुतोऽपि प्रथत इति ‘वीराच्चैवाद्भुतोत्पत्तिः’ इत्युक्तम् । न्यग्भूतरजोगुणस्य प्रबुद्धतमसश्चेतसोऽवस्थाविशेषः ससंकोचस्तमालम्ब्य बीभत्सः प्रादुरास्ते तदेकभूमिकश्च भयानक इति ‘बीभत्साच्च भयानकः’ इत्याह ॥

तेऽमी चत्वारश्चित्तावस्थाविशेषाः कथमविशेषणादेव संदर्भाद्भवन्तीत्याशङ्क्य विभागेनोत्तरमाह—