सुकुमारेति । चित्तद्रुतिकारित्वं सौकुमार्यं सुकुमारावर्थसंदर्भौ यस्यामिति विग्रहः । एवं प्रौढार्थसंदर्भेत्यपि । चित्तदीप्तिविधायिता प्रौढिः । अर्थसौकुमार्यादिना विशेष्यमाणसंदर्भः सुकुमारत्वादिः शब्दालंकारतां प्रयोजयति । कोमलप्रौढो मध्यमः । प्रकारान्तरविरहाच्च मध्यमभारत्यादयो न संभवन्ति ॥