शशिरुचिष्विति । नियमितादिषु मुग्धाङ्गनाचुम्बनरसोत्सुकानामतिमनोज्ञाधररागसमर्पकेषु नागलतादलेषु, ततो मानपरिग्रहे वलितकादिचुम्बनविशेषार्थिनीनां कचग्रहसौभाग्यसुन्दरे मल्लिकादाम्नि, ततः सर्वाङ्गीणाश्लेषसौभाग्यार्थकचन्दनरसेऽनन्तरमीर्ष्यारोषवासनानिःशेषकेलियन्त्रणरतोत्कण्ठितानां सीधुपात्रे, ततः सर्वोपकरणजीवितसर्वस्वे प्रियतमे समकक्षतयैव दृष्टयः पेतुरिति । ‘कुवलयिनि’ इति युक्तः पाठः । ‘कुवलयित—’ इति पाठे विशेषणाङ्गप्राधान्यविवक्षायां समासे गुणीभावस्यानुचितत्वात् । सेयं कैशिकी मसृणे शृङ्गारादौ विनियुज्यत इति ॥