श्रिय इति । बुद्धिरूपा कामधेनुः श्रियः प्रथयतीत्युक्ते न तथा प्रकर्षः, यथोक्ते तु विशिष्टः कवेरभिप्राय उन्नीयते । तथा हि—यथोदुम्बरः स लोहितं फलं पच्यत इति कर्मकर्तरि फलोदुम्बरयोरैकात्म्यभवसीयते तथेहापि श्रीरूपमात्मानं बुद्धिः प्रकाशयतीति । अत एव हि ‘दुहिपच्योर्बहुलं सकर्मकयोः’ (वा ३।१।८७) इति बाह्यकर्मविशिष्टस्यैव कर्तुः कर्मवद्भावः शिष्यते । ‘न दुहस्नुनमां यक्चिणौ’ (३।१।८९) इति यगभावोऽपि विशेषाभिप्रायनियत एव रुणद्धीत्यागमरूपः । सूते इति लुप्तः । प्रमाष्टींति बृद्धियोजकः । पुनीते इति स्वरूपेण विकृतश्च 169 विकरणः । आत्मनेपदपरस्मैपदयोरेकान्तरितो निवेशः । श्रिय इति प्रकृतिभागे इयङादेशो विकारो विभक्तावपि विकारः । विपद इति प्रकृतिरविकृता । विभक्तिस्तु रुत्वेन विकृता । यशांसीति द्वे अपि विकृते । मलिनमिति वैकल्पिकपरसवर्णविधौ द्वयमविकृतम् । संस्कारशौचेनेति प्रकृतिरविकृता । प्रत्ययस्त्विनादेशेन विकृतः । तथा श्रिय इति माङ्गल्यम्, विपद इति विपरीतमिति क्रमेण शुद्धा बुद्धिः कामधेनुरिति । मङ्गलपरम्परानिवेशनेनोपसंहारश्चित्रांशुकोज्ज्वल इव प्रतिभासमानो नु बिम्बमिव कामपि कान्तिमभिव्यञ्जयत्तूपलक्ष्यते । मङ्गलामङ्गलार्थपदपरत्वेनेति । मङ्गलामङ्गलेभ्यः पदेभ्यः परवर्तित्वेनेत्यर्थः ॥