योगेति । योगेत्यादौ द्वन्द्वपरवर्ती परम्पराशब्दः प्रत्येकमन्वीयते । योगो योगरूढिः । कारणं कार्यकारणभावः । निरूढाः प्रमिताः । पदसिद्धये पदसमुदायात्मकवाक्यैकदेशतासिद्धये ॥

यद्यपि पदानामर्थद्वारक एव संबन्धः, तथापि तदौपयिकविशेषः क्वचित्पदेष्वेव साक्षादवसीयते क्वचित्पदार्थेष्वित्यभिप्रेत्याह—