प्राच्यामिति । जम्भजित्पदं कृदन्तत्वाद्यौगिकम् । तथा जम्भजिद् द्विप इत्यपि समासत्वात् । तदेतदुभयं योगेनातिप्रयुज्यमानं निरूढिद्वयेन विवक्षितैरावतरूपे वस्तुनि नियम्यते । हयाङ्गनेति वडवापर्यायः । आस्यमिति मुखपर्यायः । हुतभुगित्यनलपर्यायः । सेयं पदपरम्परापर्यायताप्रतिसंधानेनाभिमतवडवामुखानलप्रतीतिं करोति । मदस्य किञ्जल्कोन्मेषे तस्य कल्के तस्याप्युद्भटतायां हेतुभाव इति कार्यकारणपरम्परा । नभःकटाहोऽङ्गी । तस्याङ्गमेकदेशः कुहरं तस्यापि क्रोड इत्यङ्गाङ्गिगपरम्परा च यथाभिमतपदैकवाक्यतानिदानमिति तदेतद् व्याचष्टे—अत्रेति । परिस्फुरन्ती कविशक्तिव्यञ्जकतया सहृदयहृदयेषु प्रतिफलति ॥

विरुद्धजात्यादियोगनिमित्ता पदार्थयुक्तिर्यथा—