तिष्ठेति । उपस्थितिसमयसीमामतिक्रामति प्रियतमे तत्कालद्विगुणितोत्कण्ठातरलितान्तःकरणः कदाचित्प्रागिव गर्भगृहद्वारि तिष्ठति । ततस्तत्रानवलोकमाना गृहाङ्गणे भवति । तदनन्तरं वेश्मनो बहिर्व्रजति । सोऽयं विजातीयक्रियार्थनानाधातुगोचरः सर्वकालेषु ‘समुच्चयेऽन्यतरस्याम्’ (३।४।३) इति लोटो हिरनुशिष्यते । अत एव दर्शनावच्छेदभूतद्वारावस्थानादिसामान्यवचनः ‘समुच्चये सामान्यवचनस्य’ (३।४।५) इत्यनुशासनान्नियमितप्रयुक्तिरीक्षतिरनुप्रयुज्यते । नायकस्य सर्वथा हृदय177 वैशसं सर्वथैवाश्रद्दधाना दूरदूरतरदूरतमरथ्याभागावलोकनार्थिनी शालागृहमारोहति, ततस्तस्मादुच्चैस्तमङ्गगम् अट्टालकम्, अनन्तरं तस्मादुच्चतरां वलभीमुपरितनकुटीमिति । अत एवाञ्चनक्रियैवात्रावृत्तेति ‘क्रियासमभिहारे लोट्र लोटो हिस्वौ वा च तध्वमोः’ (३।४।२) इत्यनुशिष्यते । अत एव च ‘यथाविध्यनुप्रयोगः पूर्वस्मिन्’ (३।४।४।) इति तस्यैव धातोरनुप्रयोगोऽपि । एवमप्यनागच्छति नायके दूतीव्यापारः शरणं यत्कुण्ठनायां स्वयं वा तत्र गमनमित्युपदिश्यते तेन तत्तदभिप्रायसंवर्धकसंदेशप्रकर्षः सोऽयमाभीक्ष्ण्यद्विरुक्त्या व्यज्यते । अत एव लोटः समभिव्याहारो विषयो न तु घञादिवदभिधेय इति पूर्वाचार्याः । इतिशब्दादधिकं चतुर्थवाक्यानुप्रविष्टमिति यावच्छब्देनावच्छिनत्ति संदिश संदिशेति यावदिति दिक् ॥