ज्योतिर्भ्य इति । प्रियो हि नाप्रियमाचरतीत्युत्सर्गसिद्धाप्रियानाचरणं दैव-180 गत्या शठे संभाव्यमानमाश्चर्यमुन्मुद्रयत्सामान्यपरम्परया प्रेमाविष्टमन्तःकरणमावेदयति । यदि ज्योतिरादेस्तमःप्रभृतीनामुद्गमः स्यादपि प्रियादप्रियमिति सर्वथैव निषेधे विधातव्ये प्रत्यक्षपरिकल्पितस्यान्यथाकर्तुमशक्यत्वात्प्रमेयविरोधमसहमाना विधत्ते च निषेधति चेति निषेधविधिप्रसङ्गे विधिनिषेधरूपा भणितिर्भवति ॥