433
इरिमेदत्वक्पलशतमभिनवमापोथ्य खण्डशः कृत्वा ॥
तोयाढकैश्चतुर्भिर्निष्क्वाथ्य चतुर्थशेषेण ॥ ८८ ॥
क्वाथेन तेन मतिमांस्तैलस्यार्धाढकं शनैर्विपचेत् ॥
कल्कैरक्षसमांशैर्मञ्जिष्ठालोध्रमधुकानाम् ॥ ८९ ॥
इरिमेदखदिरकट्फललाक्षान्यग्रोधमुस्तसूक्ष्मैला--
कर्पूरागरुपद्मकलवङ्गकङ्कोलजातीनाम् ॥ ९० ॥
फलपत्त(त्रा)ङ्गगैरिकवराङ्गगजकुसुमधातकीनां च ॥
सिद्धं भिषग्विदध्यादिदं मुखोत्थेषु रोगेषु ॥ ९१ ॥
परिशीर्णदन्तविद्रधिसौषिरशीताददन्तहर्षेषु ॥
कृमिदन्तदरणचलितप्रकृष्टमांसावशीर्णेषु ॥
मुखदौर्गन्ध्ये कार्यं प्रागुक्तेष्वामयेषु तैलमिदम् ॥ ९२ ॥
तैलं लाक्षारसं क्षीरं पृथक्प्रस्थसमं पचेत् ॥ ९३ ॥
चतुर्गुणेरिमक्वाथे द्रव्यैश्च पलसंमितैः ॥
लोध्रकट्फलमञ्जिष्ठापद्मकेसरपद्मकैः ॥ ९४ ॥
चन्दनोत्पलयष्ट्याह्वैस्तैलं गण्डूषधारणम् ॥
दालनं दन्तचालं च दन्तमोक्षं कपालिकाम् ॥ ९५ ॥
शीतादं पूतिवक्त्रं च अरुचिं विरसास्यताम् ॥
हन्यादास्यगतानेतान्कुर्याद्दन्तानपि स्थिरान् ॥ ९६ ॥
बकुलस्य फलं लोध्रं वज्रिवल्लीकुरण्टकम् ॥
चतुरङ्गुलबब्बूलवाजिकर्णेरिमासनम् ॥ ९७ ॥
एषां कल्ककषायाभ्यां तैलं पक्वं मुखे धृतम् ॥
स्थैर्यं करोति चलतां दन्तानां नावनेन तु ॥ ९८ ॥