Adhikāra 8
साध्यं तु पाण्ड्वामयिनं समीक्ष्य स्निग्धं घृतेनोर्ध्वमधश्च शुद्धम् ॥
	संपादयेत्क्षौद्रघृतप्रगाढैर्हरीतकीचूर्णयुतैः प्रयोगैः ॥ १ ॥
                                                            पिबेद्धृतं वा रजनीविपक्वं स्यात्त्रैफलं तैल्वकमेव वाऽपि ॥
	विरेचनद्रव्यकृतं पिबेद्वा योगांश्च वैरेचनिकान्घृतेन ॥ २ ॥
                                                            विधिः स्निग्धोऽथ वातोत्थे तिक्तशीतस्तु पैत्तिके ॥
	श्लैष्मिके कटुरूक्षोष्णः कार्यो मिश्रस्तु मिश्रके ॥
	द्विशर्करं त्रिवृच्चूर्णं पलार्धं पैत्तिके पिबेत् ॥ ३ ॥
                                                            द्विपञ्चमूलीक्वथितं सविश्वं कफात्मके पाण्डुगदे पिबेद्वा ॥
	ज्वरेऽतिसारे श्वयथौ ग्रहण्यां श्वासेऽरुचौ कण्ठहृदामये च ॥ ४ ॥
                                                            फलत्रिकामृतावासातिक्ताभूनिम्बनिम्बजः ॥
	क्वाथः क्षौद्रयुतो हन्यात्पाण्डुरोगं सकामलम् ॥ ५ ॥
                                                            अयस्तिलत्र्यूषणकोलभागैः सर्वैः समं माक्षिकधातुचूर्णम् ॥
	तैर्मोदकः क्षौद्रयुतोऽनुतक्रं पाण्ड्वामये दूरगतेऽपि शस्तः ॥ ६ ॥
                                                            अयोमलं तु संतप्तं भूयो गोमूत्रसेचितम् ॥ ७ ॥
                                                            मधुसर्पिर्युतं चूर्णं सह भक्तेन योजयेत् ॥
	दीपनं चाग्निजननं शोथपाण्ड्वामयापहम् ॥ ८ ॥
                                                            त्र्यूषणत्रिफलामुस्तविडङ्गचित्रकाः समाः ॥
	नवायोरजसो भागास्तच्चूर्णं मधुसर्पिषा ॥
	भक्षयेत्पाण्डुहृद्रोगकुष्ठार्शःकामलापहम् ॥ ९ ॥
                                                            रेचनं कामलार्तस्य स्निग्धस्याऽऽदौ प्रयोजयेत् ॥
	ततः प्रशमनी कार्या क्रिया वैद्येन जानता ॥ १० ॥
                                                            त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसः ॥
	प्रातर्माक्षिकसंयुक्तः शीलितः कामलापहः ॥ ११ ॥
                                                            अञ्जनं कामलार्तानां द्रोणपुष्पीरसः शुभः ॥
	निशागैरिकधात्रीणां चूर्णं वा संप्रकल्पयेत् ॥ १२ ॥
                                                            नस्यं कर्कोटमूलं स्याद्घ्रेयं वा जालिनीफलम् ॥ १३ ॥
                                                            अयोरजोव्योषविडङ्गचूर्णं लिहेद्धरिद्रां त्रिफलान्वितां वा ॥
	सशर्करा कामलिनां त्रिभण्डी हिता गवाक्षी सगुडा च शुण्ठी ॥ १४ ॥
                                                            धात्रीलोहरजोव्योषनिशाक्षौद्राज्यशर्कराः ॥
	लेहो निवारयत्याशु कामलामुद्धतामपि ॥ १५ ॥
                                                            दग्ध्वाऽक्षकाष्ठैर्मलमायसं तु गोमूत्रनिर्वापितमष्टवारान् ॥
	विचूर्ण्य लीढं मधुनाऽचिरेण कुम्भाह्वयं पाण्डुगदं निहन्ति ॥ १६ ॥
                                                            पाण्डुरोगक्रियां सर्वां योजयेच्च हलीमके ॥
	कामलायां तु या दृष्टा साऽपि कार्या भिषग्वरैः ॥ १७ ॥
                                                            हरिद्रात्रिफलानिम्बबलामधुकसाधितम् ॥
	सक्षीरं माहिषं सर्पिः कामलाहरमुत्तमम् ॥ १८ ॥
                                                            मूर्वातिक्तानिशायासकृष्णाचन्दनपर्पटैः ॥
	त्रायन्तीवत्सभूनिम्बपटोलाम्बुददारुभिः ॥ १९ ॥
                                                            अक्षमात्रैर्घृतं प्रस्थं सिद्धं क्षीरचतुर्गुणम् ॥
	पाण्डुताज्वरविस्फोटशोथार्शोरक्तपित्तजित् ॥ २० ॥
                                                            व्योषं बिल्वं द्वे रजन्यौ त्रिफला द्विपुनर्नवम् ॥
	मुस्तमायोरजः पाठा विडङ्गं देवदारु च ॥ २१ ॥
                                                            वृश्चिकाली च भार्ङ्गी च सक्षीरैस्तैः शृतं घृतम् ॥
	सर्वान्प्रशमयत्येतद्विकारान्मृत्तिकाकृतान् ॥ २२ ॥
                                                            त्र्यूषणं त्रिफला मुस्तं विडङ्गं चव्यचित्रकौ ॥
	दार्वीत्वङ्माक्षिको धातुर्ग्रन्थिकं देवदारु च ॥ २३ ॥
                                                            एषां द्विपलिकान्भागांश्चूर्णं कृत्वा पृथक्पृथक् ॥
	मण्डूरं द्विगुणं चूर्णाच्छुद्धमञ्जनसंनिभम् ॥ २४ ॥
                                                            मूत्रे चाष्टगुणे पक्त्वा तस्मिंस्तु प्रक्षिपेत्ततः ॥
	उदुम्बरसमान्कुर्याद्वटकांस्तान्यथाग्नि च ॥ २५ ॥
                                                            उपयुञ्जीत तक्रेण सात्म्यं जीर्णे च भोजयेत् ॥
	मण्डूरवटका ह्येते प्राणदाः पाण्डुरोगिणाम् ॥ २६ ॥
                                                            कुष्ठान्यजरकं शोफमूरुस्तम्भकफामयान् ॥
	अर्शांसि कामलामेहं प्लीहानं नाशयन्ति च ॥ २७ ॥
                                                            पुनर्नवा त्रिवृच्छुण्ठी पिप्पली मरिचानि च ॥
	विडङ्गं देवकाष्ठं च चित्रकं पुष्कराह्वयम् ॥ २८ ॥
                                                            हरिद्रे द्वे च त्रिफला दन्ती च चविका तथा ॥
	कुटजस्य फलं तिक्ता पिप्पलीमूलमुस्तकम् ॥ २९ ॥
                                                            एतानि समभागानि मण्डूरं द्विगुणं ततः ॥
	मूत्रे चाष्टगुणे पक्त्वा धारयेत्स्निग्धभाजने ॥
	पाण्डुशोथोदरानाहशूलार्शःकृमिगुल्मनुत् ॥ ३० ॥
                                                            पञ्चकोलं समरिचं देवदारु फलत्रिकम् ॥ ३१ ॥
                                                            विडङ्गमुस्तयुक्ताश्च भागास्त्रिपलसंमिताः ॥
	यावन्त्येतानि चूर्णानि मण्डूरं द्विगुणं ततः ॥ ३२ ॥
                                                            पक्त्वाऽष्टगुणिते मूत्रे घनीभूते तदुद्धरेत् ॥
	ततोऽक्षमात्रान्वटकान्पिबेत्तक्रेण नक्तभुक् ॥ ३३ ॥
                                                            पाण्डुरोगं जयत्येष मन्दाग्नित्वमरोचकम् ॥
	अर्शांसि ग्रहणीदोषमूरुस्तम्भं हलीमकम् ॥ ३४ ॥
                                                            कृमिप्लीहानमुदरं गलरोगं च नाशयेत् ॥
	मण्डूरवज्रनामाऽयं रोगानीकप्रणाशनः ॥ ३५ ॥
                                                            यवगोधूमशाल्यन्नं रसैर्जाङ्गलजैः शुभैः ॥
	मुद्गाढकीमसूराद्यैस्तयोर्भोजनमिष्यते ॥ ३६ ॥
                                                            