Adhikāra 28
त्रिवृत्सुधापत्रतिलादिशाकग्राम्यौदकानूपरसैर्यवान्नम् ॥
	अन्यैश्च सृष्टानिलमूत्रविड्भिरद्यात्प्रसन्नागुडसीधुपायी ॥ १ ॥
                                                            आस्थापनं मारुतजे स्निग्धस्विन्नस्य शस्यते ॥
	पुरीषजे तु कर्तव्यो विधिरानाहिकस्तु यः ॥
	क्षीरवैतरणौ बस्ती युञ्ज्यात्तत्र चिकित्सकः ॥ २ ॥
                                                            श्यामा दन्ती द्रवन्ती स्नुङ्महाश्यामा स्नुही त्रिवृत् ॥ ३ ॥
                                                            सप्तला शङ्खिनी श्वेता राजवृक्षः सतिल्वकः ॥
	कम्पिल्लकः करञ्जश्च हेमक्षीरीत्ययं गणः ॥ ४ ॥
                                                            सर्पिस्तैलरजःक्वाथकल्केष्वन्यतमेन तु ॥
	उदावर्तोदरानाहविषगुल्मविनाशनः ॥ ५ ॥
                                                            त्रिवृत्कृष्णाहरीतक्यो द्विचतुष्पञ्चभागिकाः ॥
	गुटिका गुडतुल्यास्ता विड्विबन्धगदापहाः ॥ ६ ॥
                                                            हरीतकी यवक्षारः पीलुनी त्रिवृता तथा ॥
	घृतैश्चूर्णमिदं पेयमुदावर्तविनाशनम् ॥ ७ ॥
                                                            हिङ्गुकुष्ठवचास्वर्जिबिडं चेति द्विरुत्तरम् ॥
	पीतं मद्येन तच्चूर्णमुदावर्तहरं परम् ॥ ८ ॥
                                                            खण्डपलं त्रिवृतासममुपकुल्याकर्षचूर्णितं श्लक्ष्णम् ॥
	प्राग्भोजने च समधु विडालपदकं लिहेत्प्राज्ञः ॥ ९ ॥
                                                            एतद्गाढपुरीषे पित्ते च कफे च विनियोज्यम् ॥
	स्वादुर्नृपयोग्योऽयं चूर्णो नाराचको नाम्ना ॥ १० ॥
                                                            हिङ्गुमाक्षिकसिन्धूत्थैः पक्त्वा वर्ति सुवर्तिताम् ॥
	घृताभ्यक्तां गुदे दद्यादुदावर्तविनाशिनीम् ॥ ११ ॥
                                                            मदनं पिप्पली कुष्ठं वचा गौराश्च सर्षपाः ॥
	गुडक्षारसमायुक्ता फलवर्तिः प्रशस्यते ॥ १२ ॥
                                                            आगारधूमसिन्धूत्थतैलयुक्ताम्लमूलकम् ॥
	क्षुण्णनिर्गुण्डिपत्रं वा स्विन्ने पायौ क्षिपेद्बुधः ॥ १३ ॥
                                                            सौवर्चलाढ्यां मदिरां मूत्रे त्वभिहते पिबेत् ॥
	एलां वाऽप्यथ मद्येन क्षीरवारि पिबेद्बुधः ॥
	दुस्पर्शास्वरसं वाऽपि कषायं ककुभस्य च ॥ १४ ॥
                                                            ईर्वारुबीजं तोयेन पिबेद्वाऽलवणीकृतम् ॥
	पञ्चमूलीशृतं क्षीरं द्राक्षारसमथापि वा ॥ १५ ॥
                                                            सर्वथैवोपयुञ्जीत मूत्रकृच्छ्राश्मरीविधिम् ॥ १६ ॥
                                                            स्नेहैः स्वेदैरुदावर्तं जृम्भजं समुपक्रमेत् ॥
	अश्रुमोक्षोऽश्रुजे कार्यः स्निग्धस्विन्नस्य यत्नतः ॥ १७ ॥
                                                            क्षवजे क्षवपत्रेण घ्राणस्थेनाऽऽनयेत्क्षवम् ॥
	उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत् ॥ १८ ॥
                                                            छर्द्याघातं यथादोषं नस्यस्नेहादिभिर्जयेत् ॥
	259 
	बस्तिशुद्धिकरावापं चतुर्गुणजलं पयः ॥ १९ ॥
                                                            आवारिनाशात्क्वथितं पीतवन्तं प्रकामतः ॥
	रमयेयुः प्रिया नार्यः शुक्रोदावर्तिनं नरम् ॥ २० ॥
                                                            अत्राभ्यङ्गावगाहाश्च मदिराश्चरणायुधाः ॥
	शालिः पयो निरूहाश्च हितं मैथुनमेव च ॥ २१ ॥
                                                            क्षुद्विघाते हितं स्निग्धमुष्णमल्पं च भोजनम् ॥
	तृष्णाघाते पिबेत्मन्थं यवागूं चापि शीतलाम् ॥ २२ ॥
                                                            रसेनाद्यात्सुविश्रान्तः श्रमश्वासातुरो नरः ॥
	निद्राघाते पिबेत्क्षीरं स्वप्याच्चेष्टकथा नरः ॥ २३ ॥
                                                            