79
तुलामथाऽऽर्द्रां गिरिमल्लिकायाः संक्षुद्य पक्त्वा रसमाददीत ॥
तस्मिन्सुपूते पलसंमितानि श्लक्ष्णानि पिष्ट्वा सह शाल्मलेन ॥ ५५ ॥
पाठासमङ्गातिविषाः समुस्ता बिल्वं च पुष्पाणि च धातकीनाम् ॥
प्रक्षिप्य भूयो विपचेच्च तावद्दर्वीप्रलेपः स्वरसस्तु यावत् ॥ ५६ ॥
पीतस्त्वसौ कालविदा जलेन मण्डेन वाऽजापयसाऽथवाऽपि ॥
निहन्ति सर्वं त्वतिसारमुग्रं कृष्णं सितं लोहितपीतकं वा ॥ ५७ ॥
दोषं ग्रहण्या विविधं च रक्तं पित्तं तथाऽर्शांसि स शोणितानि ॥
असृग्दरं चैवमसाध्यरूपं निहन्त्यवश्यं कुटजाष्टकोऽयम् ॥ ५८ ॥
तुलाद्रव्ये जलद्रोणो द्रोणे द्रव्यतुला मता ॥ ५९ ॥
कुटजस्य पलं ग्राह्यमष्टभागे जले शृतम् ॥
तथैव विपचेद्भयो दाडिमोदकसंयुतम् ॥
यावच्च लसिकाभासं शृतं तमुपकल्पयेत् ॥ ६० ॥
तस्यार्धकर्षं तक्रेण पिबेद्रक्तातिसारवान् ॥
अवश्यमरणीयोऽपि न मृत्योर्याति गोचरम् ॥
कुटजक्वाथतुल्योऽत्र दाडिमस्य रसो मतः ॥ ६१ ॥