81
गुददाहे प्रपाके वा पटोलमधुकाम्बुना ॥
सेकादिकं प्रशंसन्ति च्छागेन पयसाऽथवा ॥ ७० ॥
स्वेदो वा मूषिकामांसैर्गोवसाम्रक्षणं तथा ॥ ७१ ॥
गुदनिःसरणे शस्तं चाङ्गेरीघृतमुत्तमम् ॥
शोथादीनविरोधाच्च साधयेत्स्वैश्चिकित्सितैः ॥ ७२ ॥
शोथं शूलं ज्वरं तृष्णां श्वासं कासमरोचकम् ॥
छर्दि मूर्छां च हिक्कां च दृष्ट्वाऽतीसारिणं त्यजेत् ॥ ७३ ॥
स्नानाभ्यङ्गावगाहं च गुरुस्निग्धादिभोजनम् ॥
व्यायाममग्निसंतापमतीसारी विवर्जयेत् ॥ ७४ ॥

Adhikāra 4