363
गुदस्य श्वयथुं दृष्ट्वा विशोष्य शोधयेत्ततः ॥
रक्तावसेचनं कार्यं यथा पाकं न गच्छति ॥ १ ॥
वटपत्रेष्टिकाशुण्ठीगुडूच्यः सपुनर्नवाः ॥
सुपिष्ट्वा पिटिकावस्थे लेपः शस्तो भगंदरे ॥ २ ॥
पिडकानामपक्वानामपतर्पणपूर्वकम् ॥
कर्म कुर्याद्विरेकान्तं भिन्नानां वक्ष्यते क्रिया ॥ ३ ॥
एषणं पाटनं क्षारवह्निदाहादिकं क्रमम् ॥
विधाय व्रणवत्कार्यं यथादोषं यथाक्रमम् ॥ ४ ॥
त्रिवृत्तिला नागदन्ती मञ्जिष्ठा सह सर्पिषा ॥
उत्सादनं भवेदेतत्सैन्धवक्षौद्रसंयुतम् ॥ ५ ॥
रसाञ्जनं हरिद्रे द्वे मञ्जिष्ठा निम्बपल्लवाः ॥
त्रिवृत्तेजोवती दन्ती कल्को नाडीव्रणापहः ॥ ६ ॥
न्यग्रोधादिर्गणो यस्तु हितः शोधनरोपणः ॥
तैलं घृतं वा तत्पक्वं भगंदरविनाशनम् ॥ ७ ॥