Adhikāra 49

स्निग्धस्विन्नस्य तेष्वादौ ध्वजमध्ये शिराव्यधः ॥
जलौकःपातनं वा स्यादूर्ध्वाधःशोधनं तथा ॥
पाको रक्ष्यः प्रयत्नेन शिश्नक्षयकरो हि सः ॥ १ ॥
पटोलनिम्बत्रिफलागुडूचीक्वाथं पिबेद्वा खदिरासनाभ्याम् ॥
सगुग्गुलुं वा त्रिफलायुतं वा सर्वोपदंशापहरः प्रयोगः ॥ २ ॥
366
प्रपौण्डरीक्वं मधुकं रास्ना कुष्ठं पुनर्नवा ॥
सरलागुरुभद्राख्यैर्वातजं संप्रलेपयेत् ॥ ३ ॥
गैरिकाञ्जनमञ्जिष्ठामधुकोशीरपद्मकैः ॥
सचन्दनोत्पलैः स्निग्धैः पैत्तिकं संप्रलेपयेत् ॥ ४ ॥
निम्बार्जुनाश्वत्थकदम्बशालजम्बूवटोदुम्बरवेतसेषु ॥
प्रक्षालनालेपघृतानि कुर्याच्चूर्णं च पित्तास्रभवोपदंशे ॥ ५ ॥
शालाजकर्णाश्वकर्णधवत्वग्भिः कफोत्थितम् ॥
सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत् ॥ ६ ॥
त्रिफलायाः कषायेण भृङ्गराजरसेन वा ॥
व्रणप्रक्षालनं कुर्यादुपदंशप्रशान्तये ॥ ७ ॥
दहेत्कटाहे त्रिफलां सा मषी मधुसंयुता ॥
उपदंशे प्रलेपोऽयं सद्यो रोपयति व्रणम् ॥ ८ ॥
जपाजात्यश्वमारार्कशम्याकानां दलैः पृथक् ॥
कृतं प्रक्षालने क्वाथं मेढ्रपाके प्रयोजयेत् ॥ ९ ॥
करञ्जनिम्बार्जुनशाकजम्बूवटादिभिः कल्ककषायसिद्धम् ॥
सर्पिर्निहन्यादुपदंशदोषं सदाहपाकं स्रुतिरागयुक्तम् ॥ १० ॥
367
आगारधूमो रजनी सुराकिट्टं तु तैस्त्रिभिः ॥ ११ ॥
भागोत्तरैः पचेत्तैलं कण्डूशोथरुजापहम् ॥
शोधनं रोपणं चैव सवर्णकरणं तथा ॥ १२ ॥
अर्शसां छिन्नदग्धानां क्रिया कार्योपदंशवत् ॥ १३ ॥