365
करवीरनिशादन्तीलाङ्गलीलवणाग्निभिः ॥
मातुलुङ्गार्कवत्साह्वैः पचेत्तैलं भगंदरे ॥ १७ ॥
व्यायामं मैथुनं युद्धं पृष्ठयानं गुरूणि च ॥
संवत्सरं परिहरेदुपरूढव्रणो नरः ॥ १८ ॥

Adhikāra 49

स्निग्धस्विन्नस्य तेष्वादौ ध्वजमध्ये शिराव्यधः ॥
जलौकःपातनं वा स्यादूर्ध्वाधःशोधनं तथा ॥
पाको रक्ष्यः प्रयत्नेन शिश्नक्षयकरो हि सः ॥ १ ॥
पटोलनिम्बत्रिफलागुडूचीक्वाथं पिबेद्वा खदिरासनाभ्याम् ॥
सगुग्गुलुं वा त्रिफलायुतं वा सर्वोपदंशापहरः प्रयोगः ॥ २ ॥