367
आगारधूमो रजनी सुराकिट्टं तु तैस्त्रिभिः ॥ ११ ॥
भागोत्तरैः पचेत्तैलं कण्डूशोथरुजापहम् ॥
शोधनं रोपणं चैव सवर्णकरणं तथा ॥ १२ ॥
अर्शसां छिन्नदग्धानां क्रिया कार्योपदंशवत् ॥ १३ ॥

Adhikāra 50

हितं च सर्पिषः पानं पथ्यं चापि विरेचनम् ॥
हितः शोणितमोक्षश्च यच्चापि लघुभोजनम् ॥ १ ॥
सर्षपीं लिखितां सूक्ष्मैः कषायैरवचूर्णयेत् ॥
तैरेवाभ्यञ्जनं तैलं साधयेद्व्रणरोपणम् ॥ २ ॥
क्रियेयमवमन्थेऽपि रक्तं स्राव्यं तथोभयोः ॥