369
रक्तविद्रधिवच्चापि क्रिया शोणितजेऽर्बुदे ॥
कषायकल्कसर्पींषि तैलचूर्णरसक्रियाः ॥
शोधने रोपणे चैव वीक्ष्य वीक्ष्यावचारयेत् ॥ १० ॥
अर्बुदं मांसपाकं च विद्रधिं तिलकालकम् ॥
प्रत्याख्याय प्रकुर्वीत भिषक्तेषां प्रतिक्रियाम् ॥ ११ ॥

Adhikāra 51

वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु ॥
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे ॥ १ ॥