384
नक्तमालं हरिद्रे द्वे अर्कस्तगरमेव च ॥
करवीरं वचा कुष्ठमास्फोता रक्तचन्दनम् ॥ १२२ ॥
मालती सप्तपर्णं च मञ्जिष्ठा सिन्दुवारिका ॥
एषामर्धपला भागा विषस्यापि पलं भवेत् ॥ १२३ ॥
चतुर्गुणे गवां मूत्रे तैलप्रस्थं विपाचयेत् ॥
श्वित्रविस्फोटकिटिभकीटलूताविचर्चिकाः ॥ १२४ ॥
कण्डूकच्छूविकाराश्च ये व्रणा विषदूषिताः ॥
विषतैलमिदं नाम सर्वव्रणविशोधनम् ॥ १२५ ॥
श्वेतकरवीररसो गोमूत्रं चित्रको विडङ्गं च ॥
कुष्ठेषु तैलयोगः सिद्धोऽयं संमतो भिषजाम् ॥ १२६ ॥
श्वेतकरवीरमूलं विषांशं साधितं गवां मूत्रे ॥
चर्मदलसिध्मपामास्फोटकृमिकिटिभजित्तैलम् ॥ १२७ ॥
सिन्दूरार्धपलं पिष्ट्वा जीरकस्य पलं तथा ॥
कटुतैलं पचेदाभ्यां सद्यः पामाहरं परम् ॥
वृद्धवैद्योपदेशेन पचेत्तैलं पलाष्टकम् ॥ १२८ ॥