385
सिन्दूरं चन्दनं मांसी विडङ्गं रजनीद्वयम् ॥
प्रियंगुपद्मकं कुष्ठं मञ्जिष्ठाखदिरं वचा ॥ १२९ ॥
जात्यर्कत्रिवृतानिम्बकरञ्जं विषमेव च ॥
कृष्णवेत्रकलोध्रं च प्रपुन्नाटं च संहरेत् ॥ १३० ॥
श्लक्ष्णपिष्टानि सर्वाणि योजयेत्तैलमात्रया ॥
अभ्यङ्गेन प्रयुञ्जीत सर्वकुष्ठविनाशनम् ॥ १३१ ॥
पामाविचर्चिकाकच्छूविसर्पादिहितं मतम् ॥
रक्तपित्तोत्थितान्हन्ति रोगानेवंविधान्बहून् ॥ १३२ ॥
सिन्दूरगुग्गुलुरसाञ्जनसिक्थतुत्थैः
कल्कीकृतैश्च कटुतैलमिदं विपक्वम् ॥
कण्डूं स्रवत्पिटकिकामथ वा विशुष्का-
मभ्यञ्जनेन सकृदुद्धरति प्रसह्य ॥ १३३ ॥
मञ्जिष्ठात्रिफलालाक्षानिशागन्धशिलालकैः ॥
चूर्णितैस्तैलमादित्यपक्वं पामाहरं परम् ॥ १३४ ॥
स्वरसेन हि दूर्वायाः पचेत्तैलं चतुर्गुणम् ॥
कच्छूविचर्चिकापामा अभ्यङ्गादेव नाशयेत् ॥ १३५ ॥
अर्कपत्ररसे पक्वं रजनीकल्कसंयुतम् ॥
कटुतैलं निहन्त्येतत्कच्छूपामाविचर्चिकाः ॥ १३६ ॥