386
गण्डीरिकाचित्रकमार्कवार्ककुष्ठद्रुमत्वग्लवणैः समूत्रैः ॥
तैलं पचेन्मण्डलदद्रुकुष्ठदुष्टव्रणारुःकिटिभापहारि ॥ १३७ ॥
पक्षात्पक्षाद्वामनान्यभ्युपेयान्मासान्मासात्स्रंसनं चाप्यधस्तात् ॥
त्र्यहात्त्र्यहान्नस्ततश्चावपीडान्मासेष्वसृङ्मोक्षयेत्षट्सु षट्सु ॥ १३८ ॥
शालिषष्टिकगोधूमयवमुद्गादयो हिताः ॥
पुराणाः कुष्ठिने तिक्तशाकजाङ्गलसंयुताः ॥ १३९ ॥
नीचरोमनखोऽश्रान्तो नित्यमौषधतत्परः ॥
योषिन्मांससुरावर्जी कुष्ठी कुष्ठमपोहति ॥ १४० ॥

Adhikāra 52

अभ्यज्य कटुतैलेन सेकश्चोष्णाम्बुभिस्ततः ॥
तत्राऽऽशु वमनं कार्यं पटोलारिष्टवारिणा ॥ १ ॥