Adhikāra 54

393
विरेकवमनालेपसेचनासृग्विमोक्षणैः ॥
उपाचरेद्यथादोषं विसर्पानविदाहिभिः ॥ १ ॥
पटोलपिचुमन्दाभ्यां पिप्पल्या मदनेन च ॥
विसर्पे चमनं शस्तं तथैवेन्द्रयवैः सह ॥ २ ॥
त्रिफलारससंयुक्तं सर्पिस्त्रिवृतया सह ॥
प्रयोक्तव्यं विरेकार्थं विसर्पज्वरशान्तये ॥
रसमामलकानां वा घृतमिश्रं प्रदापयेत् ॥ ३ ॥
तृणवर्ज्यं प्रयोक्तव्यं पञ्चमूलचतुष्टयम् ॥
प्रदेहसेकसर्पिर्भिर्विसर्पे वातसंभवे ॥ ४ ॥
कुष्ठं शताह्वा सुरदारु मुस्ता वाराहिकुस्तुम्बुरुकृष्णगन्धाः ॥
वातेऽर्कवंशार्तगलाश्च योज्याः सेकेषु लेपेषु तथा घृतेषु ॥ ५ ॥
प्रपौण्डरीकमञ्जिष्ठापद्मकोशीरचन्दनैः ॥
सयष्टीन्दीवरैः पित्ते क्षीरपिष्टैः प्रलेपनम् ॥ ६ ॥
394
कशेरुशृङ्गाटकपद्मगुन्द्राः सशैवलाः सोत्पलकर्दमाश्च ॥
वस्त्रान्तराः पित्तकृते विसर्पे लेपा विधेयाः सघृताः सुशीताः ॥ ७ ॥
प्रदेहाः परिषेकाश्च शस्यन्ते पञ्चवल्कलैः ॥
पद्मकोशीरमधुकचन्दनैर्वा प्रशस्यते ॥ ८ ॥
पैत्ते तु पद्मिनीपङ्कपिष्टं वा शङ्खशैवलम् ॥
गुन्द्रामूलं तु शुक्तिर्वा गैरिकं वा घृतान्वितम् ॥ ९ ॥
न्यग्रोधपादा गुन्द्रा च कदलीगर्भ एव च ॥
बिसग्रन्थिश्च लेपः स्याच्छतधौतघृतप्लुतः ॥ १० ॥
हरेणवो मसूराश्च मुद्गाश्चैव सशालयः ॥
पृथक्पृथक्प्रदेहाः स्युः सर्वे वा सर्पिषा सह ॥ ११ ॥
द्राक्षारग्वधकाश्मर्यत्रिफलामण्डपीलुभिः ॥
त्रिवृद्धरीतकीभिश्च विसर्पे शोधनं हितम् ॥ १२ ॥
गायत्रीसप्तपर्णाब्दवासारग्वधदारुभिः ॥
कुटन्नटैर्भवेल्लेपो विसर्पे श्लेष्मसंभवे ॥ १३ ॥
अजाऽश्वगन्धा सरलाऽथ काला सैकेषिका चाप्यथ वाऽजशृङ्गी ॥
गोमूत्रपिष्टो विहिमः प्रदेहो हन्याद्विसर्पं कफजं सुशीघ्रम् ॥ १४ ॥
395
मदनं मधुकं निम्बं वत्सकस्य फलानि च ॥
वमनं च विधातव्यं विसर्पे कफसंभवे ॥ १५ ॥
त्रिफलापद्मकोशीरसमङ्गाकरवीरजम् ॥
नलमूलमनन्ता च लेपः श्लेष्मविसर्पहा ॥ १६ ॥
आरग्वधस्य पत्राणि त्वचः श्लेष्मातकोद्भवाः ॥
शिरीषपुष्पं कामाची हिता लेपावचूर्णितैः ॥ १७ ॥
मुस्तारिष्टपटोलानां क्वाथः सर्वविसर्पनुत् ॥
धात्रीपटोलमुद्गानामथवा घृतसंयुतः ॥ १८ ॥
अमृतवृषपटोलं निम्बकल्कैरुपेतं त्रिफलखदिरसारं व्याधिघातं च तुल्यम् ॥
क्वथितमिदमशेषं गुग्गुलोर्भागयुक्तं जयति विषविसर्पं कुष्ठमष्टादशाख्यम् ॥ १९ ॥
अमृतवृषपटोलं मुस्तकं सप्तपर्णं खदिरमसितवेत्रं निम्बपत्रं हरिद्रे ॥
विविधविषविसर्पान्कुष्ठविस्फोटकण्डूरपनयति मसूरीं शीतपित्तं ज्वरं च ॥ २० ॥